Saturday, 30 May 2020

बुद्धिमानी शिष्य: (प्रेरककथा) श्री: बालकृष्णाचार्य रेग्मी

“बुद्धिमानी शिष्य :”
(श्री बालकृष्णाचार्य रेग्मी)

कश्चन ग्राम:। तत्र एक गुरु:। तस्य द्वौ शिष्यौ।जयविजयौ ।एकदा गुरु: तयो: बुद्धिमत्ताया:परीक्षां स्वीकर्तुमुद्यत:। अत: स: चतुर्मासस्य व्रतमाचरितुं  नैमिषारण्यतीर्थक्षेत्रं  गन्तुकाम:। गमनात् पूर्वं स: शिष्याभ्यां मेलितुम् इच्छति। अत: तस्यआह्वाने जयविजयौ तत्समीपं गतवन्तौ।तदा गुरु: स्वहस्तयो: मुद्गद्विदलपूरिते ताम्रपात्रे संस्थाप्य वदति- हे शिष्यौ! अहं व्रताचरणाय नैमिषारण्यं गच्छन् अस्मि ।युवां  एतयो: एकम् एकं मुद्गपूरितपात्रं स्वीकृत्य मम प्रत्यागमनपर्यन्तं एतयो: संरक्षणं संवर्धनं च कुरुताम्।एतदनन्तरं जयविजयौ तत्स्वीकृत्य स्व-स्वगृहं गतवन्तौ।गरुरपि स्वगन्तव्यं प्रस्थित:।
जय: गृहं गत्वा तं पात्रं कपाटिकायां  सुरक्षितं स्थापयति। स: विस्मरति यत् तस्य संवर्धनमपि करणीयमासीत् इति। परन्तु विजय: तद्विपरितं गृहं गत्वा चिन्तनं करोति । तदनन्तरं स: क्षेत्रे मुद्गबीजानाम् आरोपणं करोति। यतो हि तस्य स्मृतौ गुरो: वचनम् संरक्षणं संवर्धनं च स्पष्टमासीत्। जय: मध्ये मध्ये कपाटिकामुद्घाट्य पश्यति स्म । विजय: अपि  क्षेत्रे आरोपितस्य मुद्गबीजानां अंकुरितरूपादारभ्य संरक्षणं कुर्वन् आसीत् । काल : अतीत: । जयस्य मुद्गबीजपात्रं यथावत् कपाटिकायामासीत्। परन्तु विजयस्य मुद्गबीजानि तु क्षेत्रे परिवर्धितरूपे शोभितानि आसन्। गुर: अपि तीर्थाटनं समाप्य स्वकुटीरम् आगच्छति। स: जयविजयौ आह्वयति। जय: तत्ताम्रपात्रमपि कपाटिकात: निष्काश्य आनयति। परन्तु विजय: तु रिक्तहस्तमेवागच्छति। एतत् दृष्ट्वा जय: तु बहु प्रसन्न: यद् अद्य तु गुरो: कृपा मदुपरि भविष्यति इति। गुरु: जयस्य पात्रं स्वीकारोति। तत: विजयं पृच्छति- विजय! मम मुद्गपूरितपात्रं कुत्रास्ति? विजय: वदति - तस्य कृते भवता मम क्षेत्रमागन्तव्यं भवति । गुरु: वदति - तथास्ति चेत् चलतु। तत्र गत्वा गुरु: क्रोधेन पृच्छति - कुत्रास्ति रे मे पात्रं विजय! एतत् श्रुत्वा जय: तु अतिप्रसन्न:। स: चिन्तयति अहमेव गुरो: प्रिय इति । तदैव विजय: वदति- क्षम्यताम् गुरव:! भवता उकेचमासीत् यत् मुद्गबीजानां संरक्षणं संवर्धनं च करणीयमिति। अत : मया तानि सर्वाण्यपि बीजानि आरोपितानि।इदानीम् तु  सम्पूर्णक्षेत्रे ये फलितमुद्गवृक्षा: सन्ति तान्येव भवत्प्रदत्ता: मुद्गबीजा:। एतेन तेषां संरक्षणं संवर्धनं चोभयमपि जातम्। विजयस्य एतेन महता कार्येण गुरु: हर्षित: जात:। एतस्या: बुद्धिमत्ताया: परीक्षायां विजय: एव विजयी जात:। अत: विजय: एव बुद्धिमानी शिष्य: इति निश्चित:।एतेन अन्ते जय: अपि स्वस्य त्रुटिं ज्ञात्वा भविष्यस्य कृते शिक्षां गृहीतवान्।

आशय:- सर्वदा विचार्य आशयं ज्ञात्वा सम्यक् श्रुत्वा च कार्यं करणीयम्।